Srimad Valmiki Ramayanam

Balakanda Sarga 41

Story of Sagara 4 ( contd )!

बालकांड
एकचत्वरिंशस्सर्गः

पुत्त्रांश्चिरगतान् ज्ञात्वा सगरो रघुनंदनः ।
नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥

स॥ (हे)रघुनंदनः ! सगरो पुत्रान् चिर गतान् ज्ञात्वा स्व तेजसा दीप्तमानं नप्तारम् राजा अब्रवीत्।

Oh Raghunandana ! Concerned that it is a long time since his sons went in search of the sacrificial horse, King Sagara spoke to his grandson who is shining with his own brilliance.

शूरश्च कृतविद्यश्च पूर्वैस्तुल्यो sसि तेजसा ।
पितॄणां गतिमन्विच्छ येन चाश्वोs पवाहितः ॥

स॥ (त्वं) शूरश्च कृतविद्यश्च तेजसा पूर्वैः तुल्योसि . पितॄणां गतिं च येन च अश्वो अपवाहितः अन्विच्च!

'You are well accomplished and equal your ancestors in all respects. You go and search for your father's brothers , the sacrificial horse and the one who stole the same too!

अंतर्भौमानि सत्त्वानि वीर्यवंति महंति च ।
तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥

स॥ भौमानि अंतरे सत्वानि वीर्यवंति महंति च । त्वं तेषां प्रतिघातार्थम् सासिं कार्मुकं च गृह्णीष्व ।

There are creatures in the underground which are big and powerful . Carry your sword and bows to demolish them.

अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि ।
सिद्धार्थस्सन् निवर्तस्व मम यज्ञस्य पारगः ॥

सा॥ त्वं अभिवाद्या अभिवाद्यां त्वं विघ्नकरान् अपि हत्वा , सिद्धार्थः ( भूत्वा) निवर्तस्व। मम यज्ञस्य पारगः ॥

'You bow to those who deserve to be bowed. Destroy those who create obstructions. Accomplish your task and return. Then complete my sacrificial rites'.

एवमुक्तोंसुमान् सम्यक् सगरेण महात्मना ।
धनुरादाय खड्गं च जगाम लघुविक्रमः ॥

सा॥(सः) महात्मना सगरेण एवं सम्यक् उक्तः अंसुमान् खड्गं च धनुः आदाय (सः) विक्रमः लघु जगाम ।

'Having thus been told appropriately by Sagara , Ansuman moved swiftly after taking his sword and bow'.

स खातं पितृभिर्मार्गं अंतर्भौमं महात्मभिः।
प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः ॥

स॥ (हे) नरश्रेष्ठ ! राज्ञाभिः च उदितः सः महात्मभिः पितृभिःअंतर्बौमं खातं मार्गं तेन प्रापद्यत ।

'Oh the best of kings! having been thus directed by the king , he followed the same path taken his fathers brothers'.

दैत्य दानव रक्षोभिः पिशाचपतगोरगैः ।
पूज्यमानं महातेजा दिशागज मपश्यत ॥

स॥ (सः) महातेजा दैत्य दानव रक्षोभिः पिशाच पतग उरगैः पूज्यमानं दिशागजं अपस्यत ।

'There he saw that great elephant which is worshipped by the Devas, Danavas , Rakshasas and all others'.

सतं प्रदक्षिणी कृत्वा पृष्ट्वाचापि निरामयम् ।
पितॄन् स परिपृच्छ वाजिहर्तारमेव च ॥

स॥ सः तं प्रदक्षिणी कृत्वा निरामयं पृष्ट्वाच सः पितॄन् वाज हर्तारमेव च परिपृच्च ।

'Having paid obeisance and asked about its welfare , then he enquired about his fathers brothers and the sacrificial horse'.

दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशु मतो वचः ।
असमंज कृतार्थस्त्वं सहाश्वश्शीघ्रमेष्यसि ॥

स॥ तत् अंशुमतो वचो श्रुत्वा दिशागजस्तु प्रत्याह । (हे) असमंजस ! त्वं कृतार्थः ( भवसि) शीघ्रं सह अश्वं एष्यसि ॥

'Having heard Ansuman , that great elephant replied as follows."oh Ansuman you will be successful and will go back soon with the sacrificial horse."

तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।
यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥

स॥ (सः) तस्य तत् वचनं श्रुत्वा सर्वान् दिशागजान् यथाक्रमं यथान्यायं प्रष्टुं एव समुपचक्रमे.

Having heard the that great elephant , Ansuman proceeded in the same manner and asked the other great elephants in the same way respectfully.

तैश्च सर्वैर्दिशापालैः वाक्यज्ञैर्वाक्यकोविदैः ।
पूजितस्सहयश्चैव गंतासित्यभिचोदितः ॥

स॥ तैः सर्वैः दिशापालैः वाक्यज्ञैः वाक्यकोविदैः पूजितः सहयश्च एव गंतासि इति अभिचोदितः ।

Those great elephants too being able to recognize those who speak with respect and who are great speakers, honored him and spoke to him saying " You will go back with the sacrificial horse soon".

तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।
भस्मराशी कृता यत्र पितरस्तस्य सागराः ॥

स॥ तेषाम् तत् वचनं श्रुत्वा स विक्रमः लघु ( तत्र) जगाम यत्र सागराः तस्य पितरः भश्मराशीकृता ( आसीत्) ।

"Hearing those words Ansuman proceeded to the place where his fathers brothers, the sons of Sagara were burnt to ashes".

स दुःखवशमापन्नः त्वसमंजसुतस्तदा ।
चुक्रोश परमार्तस्तु वधात् तेषां सुदुःखितः ।

स॥ तदा त्व समंजससुत दुःखवशमापन्नः तेषाम् वधात् सुदुःखितः परमार्तस्तु चुक्रोश ।

'Then that son of Asamamjasa was over come with grief and started weeping'.
यज्ञीयं च हयं तत्र चरंतं अविदूरतः ।
ददर्श पुरुषव्याघ्रो दुःखशोक समन्वितः ॥

स॥ सः दुःखशोक समन्वितः पुरुषव्याघ्रः तत्र अविदूरतः यज्ञीयं हयं चरंतं ददर्श ।

'Then that best of men who is immersed in sorrow then saw that sacrificial horse moving around nearby'.
स तेषां राजपुत्त्राणां कर्तुकामो जलक्रियाम् ।
सलिलार्थी महातेजा न चापश्यत् जलाशयम् ॥
विसार्य विपुलां दृष्टिं ततोsपस्यत् खगाधिपम् ।
पितॄणां मातुलं राम सुपर्णं अनिलोपमम् ॥

स॥ तेषां राज पुत्राणां जलक्रियां कर्तुकामो सलिलार्थी , महातेजा सः जलाशयं न च अपस्यत् । (हे) रामा ! ततः विपुलां दृष्टिं विसार्य पितॄणां मातुलं सुपर्णं अनिलोपमं खगाधिपतिं अपस्यत्

'Then that great one who was desirous of paying respects with water could not find water body nearby. Oh Rama ! Then as he looked farther there he found the king of Birds and the maternal uncle of his father's brothers''.

स चैवमब्रवीद्वाक्यं वैनतेयो महाबलः ।
माशुचः पुरुषव्याघ्र वधोsयं लोकसम्मतः ॥
कपिले ना प्रमेयेण दग्धा हीमे महाबलाः ।
सलिलं नार्हसि प्राज्ञ दातु मेषां हि लौकिकम् ॥
गंगा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।
तस्यां कुरु महाबाहो पितॄणां तु जलक्रियाम्॥
भस्मराशी कृतान् एतान् प्लावयेल्लोकपावनी ।
तया क्लिन्नमिदं भस्म गंगया लोककांतया ।
षष्टिं पुत्त्र सहस्राणि स्वर्गलोकं नयिष्यति ॥
गच्छचाश्वं महाभाग तं गृह्य पुरुषर्षभ ।
यज्ञं पैतामहं वीर संवर्तयितुमर्हसि ॥

स॥ स महाबलः वैनतेयः वाक्यम् अब्रवीत् . " पुरुषव्याघ्र ! मा शुचः अयं लोक सम्मतः वधः".अप्रमेयेण कपिलेन इमे दग्धाः हि ! लौकिकं प्राज्ञ एषां सलिलं दातु न अर्हसि ।(हे) पुरुषर्षभ ! हिमवतो ज्येष्ठा दुहिता गंगा ।महाबाहो तस्यां ( गंगायां) कुरु पितॄणां तु जलक्रियां । भस्मराशीकृतान् एषान् लोकपावनि प्लावयेत् । इदं भस्मं लोककांतया गंगाया क्लिन्नं षष्टिं सहस्राणि पुत्राणि स्वर्गलोकं नयिष्यति ।(हे) महभागा ! पुरुषर्षभा !तं अश्वं गृह्य च गच्च ! वीर ! पितामहं यज्ञं संवर्तयितुं अर्हसि"।

'That powerful king of birds then spoke as follows: "Oh best among men ! Do not grieve ! This death is for the benefit of all. They were destroyed by the sage Kapila. According to the accepted norms they may not paid respects by leaving water. Oh Best of men! Ganga is the eldest daughter of Himalaya. Oh best of men , you can pay respect to your forefathers by leaving water in Ganga. Those who have been turned to Ashes will be cleansed of their sins by Ganga. When those ashes are wetted by the Ganga the sixty thousand sons of Sagara will go to heaven. Oh Great Soul ! best of men ! take that horse and go. oh Hero ! you can now complete the sacrificial rites" .

सुपर्ण वचनं श्रुत्वा सोंशुमानति वीर्यवान् ।
त्वरितं हय मादाय पुनरायान्महायशाः ॥
ततो राजानमासाद्य दीक्षितं रघुनंदनः ।
न्यवेदयत् यथावृत्तं सुपर्ण वचनं तथा ॥

स॥ सः वीर्यवान् अंशुमान् सुपर्ण वचनम् श्रुत्वा हयं आदाय महायशाः त्वरितं पुनरायान्। (हे) रघुनंदन ! दीक्षितं राजानं आसाद्य यथावृत्तं तथा सुपर्ण वचनं (अपि) न्यवेदयत् ॥

'Hearing those words of the King of birds, Ansuman took the horse and returned to the
sacrificial grounds. Oh King ! Ansuman told the complete story including the words of the King of birds to Sagara'.

तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः ।
यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥

स॥ अंशुमतो घोरसंकाशं वाक्यं तत् श्रुत्वा नृपः यथाकल्पं यथाविथि यज्ञं निर्वतयामास।

'Having heard the dreadful news ( of his sons destruction) the King nevertheless completed the sacrificial rites'.

स्वपुरं चागमत् श्रीमान् इष्टयज्ञो महीपतिः ।
गंगाया श्चागमे राजा निश्चयं नाध्यगच्छत ॥

स॥ महीपतिः इष्टयज्ञो ( कृतवान्) स्वपुरं च आगमत् । राजा गंगायाश्च आगमे निश्चयं अ अध्य गच्चत ।

'Having completed the sacrificial rites , the king returned to his capital. He could not come to a conclusion about bringing Ganga to complete the rites for his departed children'.

अकृत्वा निश्चयं राजा कालेन महता महान् ।
त्रिंशद्वर्ष सहस्राणि राज्यं कृत्वा दिवंगतम् ॥

स॥ त्रिंशद्वर्ष सहस्राणि राज्यम् कृत्वा , ( गंगायाश्चागमने) निश्चयं अकृत्वा महान् राजा महता कालेन दिवंगतम् ।

'Having ruled for thirty thousand years , the king passed away without finalizing the action to be pursued about Ganga'.

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे एकचत्वारिंशस्सर्गः ।
समाप्तं ॥समाप्तमु

'Thus ends Sarga forty one of Balakanda in Srimad Ramayan completed by Valmiki'.
|| om tat sat ||



|| Om tat sat ||